वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: सुकक्षः छन्द: गायत्री स्वर: षड्जः

अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत । यत्सोमे॑सोम॒ आभ॑वः ॥

अंग्रेज़ी लिप्यंतरण

ayā dhiyā ca gavyayā puruṇāman puruṣṭuta | yat some-soma ābhavaḥ ||

पद पाठ

अ॒या । धि॒या । च॒ । ग॒व्य॒ऽया । पुरु॑ऽनामन् । पुरु॑ऽस्तुत । यत् । सोमे॑ऽसोमे । आ । अभ॑वः ॥ ८.९३.१७

ऋग्वेद » मण्डल:8» सूक्त:93» मन्त्र:17 | अष्टक:6» अध्याय:6» वर्ग:24» मन्त्र:2 | मण्डल:8» अनुवाक:9» मन्त्र:17